१५२

जमदग्नेस्सप्तहमभिचरन्वा भ्रातृव्यवान्वा कुर्वीत ।

जमदग्निर्ह वै महेनानां पुरोहित आस ।

तान्ह वित्तेनात्यादधौ ।

त उ हैनमुपजिहिंसुः ।

स हेक्षां चक्रे कथं न्वहमेषां सप्तसप्तैकाहनि ग्राम्याणां पशूनां हन्यामिति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै स तेषां सप्तसप्तैकाहनि ग्राम्याणां पशूनामहन् ।

तथो एवैषामेतद्घ्नन्ति ।

तदु भ्रातृव्यहा ।

हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।

यदु जमदग्निरपश्यत्तस्माज्जमदग्नेस्सप्ताहमित्याख्यायते ।

तदेषोपगीता

अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् । भृगुं हिंसित्वा माहेना असंहेयं पराभवन्

इति ।

असंहेयं ह वै स पराभवति य एवं विद्वांसं हिनस्ति १५२