१५१

पौरुमीढं दक्षणिधनमायुष्कामः कुर्वीत ।

तरन्तपुरुमीढौ वै वैतदश्वी माहेयौ मह्या आर्चनानस्यै पुत्रौ ।

तौ ह यन्तौ स्त्री परेत्योवाच पुत्रस्य वै त्यस्या उपतपति तं स्म मे चिकित्सतमिति ।

तौ ह क्रुध्यन्ताविवोचतुः कथं नावित्थं ब्रूयादिति तं वा अर्वीष उपवपेति ।

सा हेयं स्त्री श्रद्धाय देवर्षी मा मन्त्रकृताववोचतामित्यर्वीष उपोवाप ।

तौ ह पुनरायन्तौ परेत्योवाच यं वै कुमारमवोचतमर्वीष उपवपेत्ययं वै सोऽर्वीष उपोप्तश्शेत इति ।

तौ हासाध्विव कृत्वा मेनाते ।

तावकामयेतामिदित इयाव गातुं नाथं विन्देवहि समयं कुमारो जीवेदिति ।

स एतत्पुरुमीढस्सामाप्श्यत् ।

तेनास्तुत

अग्निमीळिष्वावसे गाथाभिश्शीरशोचिषम् । अग्निं राये पुरुमीढ श्रुतं नरः

को नाम कुमार इति ।

सुदीतिर्नामेति ।

तमग्निस्सुदीतये छर्दिः इत्येवाभ्यमृशत् ।

स तान्तो निरवर्तत ।

तमेतेन निधनेन समैरयद्दक्षाया इति ।

प्राणा वै दक्षाः ।

प्राणानेवस्मिंस्तददधात् ।

तदेतद्गातुविन्नाथवित्साम ।

गातुं वै स तन्नाथमविन्दत ।

विन्दते गातुं नाथं य एवं वेद ।

यदु पुरुमीढोऽपश्यत्तस्मात्पौरुमीढं दक्षणिधनमित्याख्यायते १५१