वसिष्ठस्य जनित्रे प्रजननकामः कुर्वीत ।
वसिष्ठो वै जीतो हतपुत्रोऽकामयत बहुः प्रजया पशुभिः प्रजायेयेति ।
स एते सामनी अपश्यत् ।
ताभ्यामस्तुत ।
ततो वै स बहुः प्रजया पशुभिः प्राजायत ।
ते एते प्रजननी सामनी ।
बहुः प्रजया पशुभिः प्रजायते य एवं वेद ।
तज्जनित्रमिति रथन्तरसाम्नः जानित्रामिति बृहत्साम्नः ।
यदु वसिष्ठोऽपश्यत्तस्माद्वसिष्ठस्य जनित्रे इत्याख्यायेते १५०