१४६

पदनिधनं ह वा अग्रे श्यैतमास वसुनिधनं नौधसम् ।

ताभ्यां व्यवहेताम् ।

ततो ह वा इदमर्वाचीनमन्योन्यस्य गृहे वसन्ति ।

यथागृहं ह वाव ततः पुरोषुर्यथाज्ञाति वा ।

रथन्तरेण स्तुवन्ति ।

इदं वै रथन्तरम् ।

अथ वामदेव्येन ।

इदं वा अन्तरिक्षं वामदेव्यम् ।

अथ नौधसेन ।

अदो वै नौधसम् ।

अनन्तर्हितानेवेत ऊर्ध्वाल्ँ लोकाञ्जयति ।

बृहता स्तुवन्ति ।

अदो वै बृहत् ।

अथ वामदेव्येन ।

इदं वा अन्तरिक्षं वामदेव्यम् ।

अथ श्यैतेन ।

इदं वै श्यैतम् ।

अनन्तर्हितानेवामुतोऽर्वाचो लोकाञ्जयति ।

उभयाल्ँ लोकाञ्जयति ये चोर्ध्वा ये चार्वाञ्चो य एवं वेद १४६