तन्नासृजत ।
तदूर्ध्वमुदैषद्यथा पृष्ठं यथा ककुदेवम् ।
तद्देवास्सङ्गृह्योर्ध्वा उदायन् ।
तेऽब्रुवन्नियद्वावेदमासेदं वाव नो देवानां वाममिति ।
यदब्रुवन्नियद्वावेदमासेदं वाव नो देवानां वाममिति वामदेव्यस्य तद्वामदेव्यत्वम् ।
तद्वा एतत्पिता माता साम्नां यद्वामदेव्यम् ।
यद्वै पुत्रोऽतिपादयति पिता वै तस्य शमयिता पिता निषेद्धा ।
तद्यन्मध्यतः क्रियते शान्त्या एव निषिद्ध्यै ।
तद्यानि ह वै स्तुतानि सामानि पश्चात्त्वत्तेषां वामदेव्यम् ।
अथ यान्यस्तुतानि पुरस्त्वत्तेषाम् ।
तेषामुभयेषां शान्त्यै निषिद्ध्यै ।
तत्स्वधूर्गेयं नोच्चैरिव न नीचैरिव ।
यदुच्चैर्गायेच्छ्रेयसो भ्रातृव्यस्य नियानेन यायात् ।
यन्नीचैर्गायेत्पापीयसो भ्रातृव्यस्य नियायेन यायात् ।
इयं वावैतस्य धूरिदमन्तरिक्षम् ।
एतदेवैनं धूर्वति य एवं विद्वांसं धूर्वतीति ।
तदाहुः प्रादेशमात्राद्वा एतदिमं लोकं न स्पृशति प्रादेशमात्रादमुं नेति ।
अथो आहुर्यावदेव गोस्सूताया उल्बं तावतैवेमं लोकं न स्पृशति तावतामुं नेति ।
अथो आहुर्यावदेव शकृत्युल्बं तावतैवेमं लोकं न स्पृशति तावतामुं नेति ।
तदेवमिवैव मन्यमानेन गेयम् ।
तदु वा आहुर्यथा वा अक्षरेण चक्रौ विष्टब्धावेवमेतेनेमौ लोकौ विष्टब्धौ ।
नीवेमं लोकं स्पृशति नीवामुमिति ।
नो हान्यस्यानुवर्त्म गेयम् ।
ईश्वरो होपजीवी भवितोर्योऽन्यस्यानुवर्त्मा गायति ।
स्वधूरेव गेयम् ।
यो वै देवानां मधु वेद मधव्यो भवति ।
वामदेव्यं वाव देवानां मधु ।
मधव्यो भवति य एवं वेद १४४