देवा वा असुरान्युधमुपप्रयन्तोऽब्रुवन्यन्नो वामं वसु तदपनिधाय युध्यामहै यदद्य कस्मिंश्चिद्भूतेऽभ्युपधावामेति ।
प्राणा वाव तेषां वामं वस्वासीत् ।
तदपनिधाय युधमुपपरायन् ।
तदेकधा भूत्वा सृजमानमतिष्ठदृचस्सामानि यजूंषि गामश्वमजामविं व्रीहिं यवं ब्राह्मणं राजन्यं वैश्यं शूद्रं यदिदं किं चित्तत्सर्वम् ।
तदेभ्य आचक्षतेदं वै वस्तद्वामं वस्वेकधा भूत्वा सृजमानं तिष्ठतीति ।
ते देवा असुरानजयन् ।
ते विजिग्यानाः पुनरायन्त एकं भूतमभ्यवायन् ।
तन्न व्यजानतेदं मम वाममिदं ममेति ।
तेऽब्रुवन्वीदं भजामहा इति ।
तस्य विभागे न समपादयन् ।
तदेवैनानब्रवीत्सर्वानेव वो मया स्तोष्यन्ति सर्वान्वोऽहमवैष्यामि मा मा विभग्ध्वमिति ।
तद्यद्गायत्रीषु स्तुवन्ति तेनाग्नेयम् ।
गायत्र्यो ह्यग्निरिति ।
यत्पृष्ठं माध्यन्दिनं तेनैन्द्र म् ।
यत्कवतीषु स्तुवन्ति तेन प्राजापत्यम् ।
यदनिरुक्तं तेन वैश्वदेवम् ।
यन्मैत्रावरुणाय स्तुवन्ति तेन मैत्रावरुणम् ।
तदेनानब्रवीत्सृजध्वं मदिति ।
तथेति ।
तदभ्यस्वरन् ।
तेऽब्रुवन्सृजस्वेति १४२