१४१

अविता जरायितॄणामा आउहो हा यि शतां भवस्यौहो हुं मा ता या हुं मा इत्युत्तमाया उत्तरार्धे कुर्यात् ।

स यथा व्रजे गा अनुपाद्यार्गलेनापिहन्यात्तादृक्तत् ।

तदाहुस्स्वयोनावेव तत्स्वारं कार्यम् ।

य एनमेवं चकृवांसमुपमीमांसेत स्वरेण यजमानस्य पशून्निरस्वारीरिति तं ब्रूयान्निधनवत्पुरस्ताद्र थन्तरं निधनवदुपरिष्टान्नौधसम् ।

ताभ्यां म एतदुभयतः प्रजाः पशवः परिगृहीताः ।

प्राणमेवैतदधां मध्यतः पशूनामिति ।

य एवैनमेवं चकृवांसमुपमीमांसते स आर्तिमार्छति ।

अष्टाक्षरा गायत्र्यष्टौ वसवः ।

गायत्रं प्रातस्सवनम् ।

अक्षरेऽक्षरे देवतान्वायत्ता ।

एकादशाक्षरा त्रिष्टुबेकादश रुद्राः ।

त्रैष्टुभं माध्यन्दिनं सवनम् ।

अक्षरे-ऽक्षरे देवतान्वायत्ता ।

द्वादशाक्षरा जगती ।

द्वादशादित्याः ।

जागतं तृतीयसवनम् ।

अक्षरे-ऽक्षरे देवतान्वायत्ता ।

अथ किं प्रतियज्ञं यजमानमपिनयन्तीति ।

स ब्रूयात्प्रजापतिर्यद्वामदेव्यमसृजत तस्य त्रीण्यक्षराण्युदखिदत् ।

स एव त्र्यक्षरः पुरुषोऽभवत् ।

वामदेव्यस्य स्तोत्रे पुरुषः इति ब्रूयात् ।

तत्प्रतियज्ञं यजमानमपिनयन्तीति ।

तदाहुर्न पुरुषः इति ब्रूयात्परोक्षमेव ध्यायेन्मनसैव नियच्छेदिति ।

तदु वा आहुर्नैव परोक्षं ध्यायेन्न मनसा नियच्छेद्यद्वाव वेद तेनैवाप्तमिति १४१