१४०

विच्छिन्नमिव वा एतत्साम प्रतिहारं प्रति ।

कया शचायि वा र्तो हायीति सङ्क्रामेदनादृत्य प्रतिहारम् ।

तदु तद्दुष्कररूपम् ।

सामि ताम्येत्तत् ।

प्रतिहार एव प्रतिह्रियमाणे वागित्युद्गाता ब्रूयात् ।

वाग्वै ब्रह्म ।

वाचैवैनत्तद्ब्रह्मणा सन्दधाति ।

आपो वै देवानां पत्नय आसन् ।

ता मिथुनमैच्छन्त ।

ता मित्रावरुणावुपैताम् ।

ता गर्भमदधत ।

ततो रेवतयः पशवोऽसृज्यन्त ।

रेवतीषु पशुकामस्य कुर्यात् ।

पशुमानेव भवति ।

ईश्वरो ह त्वप्रजातिर्भवितोः ।

कवतीभ्यो ह्येति प्राजापत्याभ्यः ।

अथ ह वा एतद्भरद्वाजः पृश्निस्तोत्रं ददर्श पशुकामः कया नश्चित्र आ भुवद् । रेवतीर्न सधामदे । अभी षु नः सखीनामिति ।

स यदेकां रेवतीं मध्यतोऽपिसृजति तेन पशुभ्यो नैति ।

यदु कवत्यौ प्राजापत्ये अभितो भवतस्तेनो प्रजायै नैति ।

तत्स्वारं भवति ।

प्राणो वै स्वरः ।

प्राणानेवैतत्पशुषु दधाति ।

ईश्वरो ह तु स्वरेण यजमानस्य पशून्निःस्वरितोर्यद्यनिधनं कुर्यात् ।

प्राणानपिहन्यात् १४०