अक्षं ह स्म वा एतत्पुरा विशश्शीर्षन्निदधति य एव तमुद्गायन्नावपातयिष्यति स न उद्गास्यतीति ।
तदु तदुपकार्यरूपमेव ।
काममेवोद्गेयम् ।
तस्य त्रीण्यक्षराणि छन्नानि गायति ।
त्रयो वा इमे लोकाः ।
प्रजापतिर्वामदेव्यं प्रजापतिर्लोकानामभिनेता ।
स यो प्रजापतिस्स्वर्गस्य लोकस्याभिनेता । स यस्स्वर्गस्य लोकस्याभिनेता स मा स्वर्गं लोकमभिनयादिति । लोकानामभिनेता स नो लोकानभिनयादिति ।
वामदेव्यस्य स्तोत्र ऋषभमप्यर्जेत् ।
सौ हौ खा इत्येवर्षभः ।
योनिर्वामदेव्यं प्रजननमृषभः ।
योन्यामेवैतत्प्रजननेन प्रजननमपिसृजति प्रजात्यै ।
तत्परोक्षमिव गेयम् ।
नर्चमुपस्पृशेत् ।
वयो वै वामदेव्यम् ।
यदृचमुपस्पृशेद्यथा वयोऽन्तरिक्षेण पतद्वृक्षमृच्छेत्तादृक्तत् ।
पदे अन्तरा नावान्यात् ।
यत्पदे अन्तरावान्याद्यथा कर्तं पतेत्तादृक्तत् ।
उत्तरस्य पदस्यारभ्यावान्यात् ।
स यथाक्रमणादाक्रमणमाक्रम्योदन्यात्तादृक्तत् १३९