देवा वा असुरान्युधमुपप्रयन्तोऽब्रुवन्यन्नो वामं वसु तदपनिधाय युध्यामहै यदद्य कस्मिंश्चिद्भूतेऽभ्युपधावामेति ।
पशवो वाव तेषां वामं वस्वासीत् ।
तदपनिधाय युधमुपपरायन् ।
ते देवा असुरानजयन् ।
ते विजिग्यानाः पुनरायन्त एकं भूतमभ्यवायन् ।
तन्न व्यजानतेदं मम वाममिदं ममेति ।
तेऽब्रुवन्वीदं भजामहा इति ।
तस्य विभागे न समपादयन् ।
तेऽब्रुवन्प्रजापतावेव पृच्छामहा इति ।
ते प्रजापतावपृच्छत ।
स प्रजापतिरब्रवीत्सर्वेषामेव व एतद्वामं सह सर्वान्व एतेन स्तोष्यन्ति सर्वान्व एतदवैष्यति मा विभग्ध्वमिति ।
तद्यद्गायत्रीषु स्तुवन्ति तेनाग्नेयम् ।
गायत्र्यो ह्यग्निरिति ।
यत्पृष्ठं माध्यन्दिनं तेनैन्द्र म् ।
यत्कवतीषु स्तुवन्ति तेन प्राजापत्यम् ।
यदनिरुक्तं तेन वैश्वदेवम् ।
यन्मैत्रावरुणाय स्तुवन्ति तेन मैत्रावरुणम् ।
तद्वा एतत्पशव्यं यद्वामदेव्यम् ।
अनेजन्नुद्गायेत्पशूनामपरावापाय ।
यदेजन्नुद्गायेत्पशून्परावपेत् ।
तदाहुः प्रावृतोऽनेजन्नुद्गायेन्नेन्मोपद्र ष्टानुव्याहरादिति ।
तदुपकार्यरूपम् ।
प्रावृत एवानेजन्नुद्गायेत् १३८