अथो बृहत् ।
मनो बृहत् ।
द्वादशाक्षरः प्रस्तावः ।
तावद्धि साम ।
द्वादश मासास्संवत्सरः ।
संवत्सरः साम ।
त्रयो बृहतो रोहा इम एव लोकाः ।
ते पुनर्नव भवन्ति प्राणा एव ।
मनो दशमम् ।
द्वादश बृहतस्तन्वो मासा एव ।
मासा रश्मयः ।
रश्मयो मरुतः ।
तैरसावादित्यो धृतः ।
स य एतदेवं वेद यत्र कामयत इह ध्रियेयेति ध्रियते तत्र ।
यो वै बृहतो बार्हतं पदं वेदोरु प्रजया पशुभिः प्रथते ।
द्वादशाक्षरं वाव बृहतो बार्हतं पदम् ।
तदायच्छतेव गेयम् ।
यो वै बृहति त्रिवृतं सदेवं प्रोढं वेद गच्छति क्षत्रमात्राम् ।
रोहा ह वाव बृहतस्त्रिवृत्सदेवः ।
ब्रह्मणोऽस्य सतः क्षत्रस्येव प्रकाशो भवति य एवं वेद ।
इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानः परां परावतमगच्छत् ।
तं प्रजापतिरकामयत तत्स्यादिति ।
तमो हो इत्यन्वाह्वयत् ।
सोऽभवत् ।
ओ हो इत्येवापरुद्धो राजन्यः कुर्वीत ।
अव हैव गच्छति १३७