१३६

अशनया ह वै रथा अन्नमु वै रथन्तरम् ।

अन्नेनाशनयां घ्नन्ति ।

तान्तां अशनयां अन्नेन हत्वा स्वर्गं लोकमारोहन् ।

बृहता वै देवास्स्वर्गं लोकमजिगांसन् ।

तेन न व्याप्नुवन् ।

तस्मिन्नुष्णिक्कभा उपादधुः ।

तेन व्याप्नुवन् ।

तेऽब्रुवन्स्वर्गं लोकं गत्वा बृहद्वावेदमभूद्येन स्वर्गं लोकं व्यापामेति ।

तदेव बृहतो बृहत्वम् ।

द्वादश बृहतो रोहान्रोहेत्स्वर्गकाम उदधिमर्दयेद्वृष्टिकामः ।

यावन्त्यु ह वै बृहत्या अक्षराण्युष्णिक्ककुभोश्च तावदितस्स्वर्गो लोकः ।

प्र स्वर्गं लोकमाप्नोति य एवं वेद १३६