अष्टाक्षरेण प्रस्तौति ।
द्व्यक्षरेणोत्तरे प्रस्तौत्यभिक्रान्त्या अनपभ्रंशाय ।
अष्टाक्षरेण प्रस्तौति ।
द्व्यक्षरेणोत्तरे प्रस्तौति ।
द्विपादमेव तदष्टाशफेषु पशुष्वध्यूहति ।
तस्माद्द्विपादष्टाशफान्पशूनधितिष्ठति ।
अष्टाक्सरेण प्रस्तौति ।
द्व्यक्षरेणोत्तरे द्वे प्रस्तौति ।
तद्द्वादश सम्पद्यन्ते ।
द्वादश मासास्संवत्सरः ।
संवत्सरः प्रजापतिर्यज्ञः ।
संवत्सरमेवैतेन प्रजापतिं यज्ञमाप्नोति ।
अक्षरेष्ठं रथन्तरं करोति ।
तस्मादरेणारेण रथः प्रतितिष्ठन्नेति ।
रथन्तरेण वै देवा संविच्य बृहता जालेनेवाभिन्यौब्जन् ।
रथन्तरेणैव द्विषन्तं भ्रातृव्यं संविच्य बृहता जालेनेवाभिन्युब्जति य एवं वेद ।
रथन्तरेण वै देवा ऊर्ध्वास्स्वर्गं लोकमायन् ।
तान्यसुररक्षसानि नव नवतय इमाल्ँ लोकानवृण्वन् ।
रथा ह नामासुः ।
ते देवा रथन्तरेणैव स्तुत्वा रथन्तरं समारुह्य स्वर्गं लोकमगच्छन् ।
तेऽब्रुवन्नतारिष्म वा इमान्रथानिति ।
तदेव रथन्तरस्य रथन्तरत्वम् ।
तरति द्विषन्तं भ्रातृव्यं य एवं वेद १३५