एकमक्षरं स्तोभति ।
तस्मादरेणारेण रथः प्रतितिष्ठन्नेति ।
द्वे अक्षरे स्तोभति ।
द्वे रथस्य पक्षसी ।
पक्षाभ्यामेव तद्देवरथं प्रतिष्ठापयति ।
त्रीण्यक्षराणि स्तोभति ।
द्विपाद्वै यजमान आत्मा तृतीयः ।
यजमान एव तत्प्रतितिष्ठति ।
अथो त्रय इमे लोकाः ।
तानेव तदाप्नोति ।
चत्वार्यक्षराणि स्तोभति ।
चतस्रो दिशश्चतुष्पादाः पशवः ।
दिक्षु चैतत्पशुषु च प्रतितिष्ठति ।
पञ्चाक्षराणि स्तोभति ।
पाङ्क्तो यज्ञः पाङ्क्ताः पशवः ।
यज्ञे चैतत्पशुषु च प्रतितिष्ठति ।
षडक्षराणि स्तोभति ।
षड्वा ऋतवः ।
ऋतुष्वेव तत्प्रतितिष्ठति ।
अथो षड्वै छन्दांसि ।
तान्येव तदाप्नोति ।
सप्ताक्षराणि स्तोभति ।
सप्तपदा वै शक्वर्यः ।
शाक्वराः पशवः ।
पशुष्वेव तच्छक्वर्यां प्रतितिष्ठति ।
अथो सप्त चतुरुत्तराणि छन्दांसि सप्त मुख्याः प्राणाः ।
तान्येव तदाप्नोति ।
अष्टावक्षराणि स्तोभति ।
अष्टाक्षरा वै गायत्री ।
तेजो ब्रह्मवर्चसं गायत्री ।
तेजस्येव तद्ब्रह्मवर्चसे प्रतितिष्ठति ।
अथो अष्टाशफेष्वेव पशुषु १३१