१२९

देवासुरा अस्पर्धन्त ।

ते देवा वज्रं क्षुरपविमसृजन्त पुरुषमेव ।

तमसुरानभ्यवृञ्जन् ।

सोऽसुरानपोह्य देवानभ्यावर्तत ।

तस्माद्देवा अबिभयुः ।

तमभिपद्य बृहद्र थन्तरयोः प्रौहन् ।

स एष वज्रः क्षुरपविर्बृहद्र थन्तरयोः पुरुष एव ।

स यं द्विष्याद्बृहद्र थन्तरयोरेनं मुखेऽपिदध्यात् ।

यदि राथन्तरस्सोमस्स्याद्र थन्तरे प्रस्तुते ब्रूयान्नमो मात्रे पृथिव्यै रथन्तर मा मा हिंसीः इति ।

यदि बार्हतस्सोमस्स्याद्बृहति प्रस्तुते ब्रूयाद्दिवं पितरमुपश्रये बृहन्मा मा हिंसीः इति ।

अथानुमन्त्रयेत प्राणैरमुष्य प्राणान्वृङ्क्ष्व ।

तक्षणेन तेक्षणीयसायुरस्य प्राणान्वृङ्क्ष्व ।

क्रुद्ध एनं मन्युना दण्डेन जहि ।

धनुरेनमातत्येष्वा विध्य इति ।

बृहद्र थन्तरयोरेवैनं मुखेऽपिदधाति ।

यं द्वेष्टि तं पुरा संवत्सरात्प्राणो जहाति ।

यो वै देवरथं वेद रथी भवति ।

यज्ञो वाव देवरथः तस्य बहिष्पवमानमेव रथमुखं बृहद्र थन्तरे अश्वावाज्यानि योक्त्राण्यभीशू पवमानौ पक्षसी १२९