१२८

प्रजापतिर्यद्बृहद्र थन्तरे असृजत स मन एवाग्रे बृहदपश्यत् ।

वाचं रथन्तरमभिव्याहरत् ।

तद्यद्वाचं रथन्तरमभिव्याहरत्तस्माद्र थन्तरं पूर्वं योगमानशे ।

अथ यन्मनोऽग्रे बृहदपश्यत्तस्मादु बृहद्र थन्तरे इत्याख्यायेते ।

मनो वै पूर्वमथ वाक् ।

मनो वै बृहद्वाग्रथन्तरम् ।

ऋग्वै रथन्तरं साम बृहत् ।

ब्रह्म वै रथन्तरं क्षत्रं बृहत् ।

इदं वै रथन्तरमदो बृहत् ।

यद्वा एजत इव तद्रा थन्तरं यदुपस्थितं तद्बार्हतम् ।

ये वा अन्यतोदन्ताः पशवस्ते राथन्तरा य उभयतोदन्तास्ते बार्हताः ।

या वै तिरश्ची विद्युत्सा राथन्तरी योर्ध्वा सा बार्हती ।

रथन्तरस्य महिम्नस्सम्भृत्य रथन्तरेणोद्गायेद्यस्ते अग्नौ महिमा यस्ते रथे यस्ते महिमा स्तनयित्नौ य उ ते वाते यस्ते महिमा तेन सम्भव रथन्तर द्र विणस्वन्न एधि इति ।

द्र विणस्वदेवोद्गात्रे भवति द्र विणस्वद्यजमानाय द्र विणस्वत्प्रजाभ्यः १२८