१२७

स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः

पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः इति ।

आ दिवो विष्टम्भमुच्छिश्रियतुः ।

तं हैवासुरा नातीयुः ।

तौ हाभिः कामदुघाभिर्देवानाजग्मतुः ।

तौ हागतौ महयां चक्रिरे

ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन

स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम्

इति ।

ता एताः पशव्या ऋचः ।

अव पशून्रुन्द्धे बहुपशुर्भवत्येताभिरृग्भिस्तुष्टुवानः ।

तास्वौशनम् ।

उशना वै काव्यो देवेष्वमर्त्यं गन्धर्वलोकमैच्छत ।

स एतत्सामापश्यत् ।

तेनातुत ।

ततो वै स देवेष्वमर्त्यं गन्धर्वलोकमाश्नुत ।

तदेतल्लोकवित्साम ।

अश्नुते देवेष्वमर्त्यं गन्धर्वलोकमेतेन तुष्टुवानः ।

यदुशना काव्योऽपश्यत्तस्मादौशनमित्याख्यायते ।

तत्स्वारं भवति ।

स्वरेण वै देवेभ्योऽन्ततोऽन्नाद्यं प्रदीयते ।

ऋक्समं पवमानान्ते भवति ।

नर्चा सामातिरेचयन्ति नर्चं साम्ना ।

तद्यदिहेव चेहेव च पवमने न स्तुवत एतस्यैव समतायै समं कॢप्त्यै ।

पदानुस्वारं पुरस्ताद्गायत्रं भवति पदानुस्वारमुपरिष्टात्पवमानान्ते ।

तस्मादुभयतःप्राणाः प्रजा ऊर्ध्वाश्चावाचीश्च ।

द्विषाम्नी गायत्री ।

योऽयमवाङ्प्राण एष एव सः ।

तस्मादेतेन द्वयं प्राणेन करोति भस्म च करोति वातं च ।

द्विषाम्नी बृहती ।

योऽयं प्राङ्प्राण एष एव सः ।

तस्मादेतेन द्वयं प्राणेन करोति रेतश्च सिञ्चति मेहति च ।

एकसाम्नी त्रिष्टुप् ।

नाभिरेव सा ।

तस्यामेकं साम ।

तस्मादेतेनैकमेव प्राणेन करोति यदेव प्राणानुदनतोऽनूदनिति १२७