१२६

मोच्चैरिति होवाच कर्णिनी वै भूमिरिति ।

तदिदमप्येतर्ह्याहुर्मोच्चैः कर्णिनी वै भूमिरिति ।

नेति होवाच ब्रूह्येवेति ।

स होवाच ब्राह्मणाविमौ समं विदतुर्बृहस्पतिरयं देवेषूशना काव्योऽसुरेषु ।

तौ यत्कुरुतस्तत्सममेव यच्छति ।

या इतर आहुतीर्जुहोति ता इतरः ।

तास्समेत्य यथायथमेव पुनर्विपरायन्ति ।

तयोर्यतरो यतरानुपसमेष्यति ते जेष्यन्तीति ।

तद्धैवेन्द्रो ऽनुबुध्य शुको भूत्वोत्पपात ।

तं हान्वीक्ष्य पतन्तमुवाच येषामसौ हरितवर्णकः पतति ते जेष्यन्तीति ।

स होशनसं काव्यमाजगामासुरेषु ।

तं होवाचर्षे कमिमं जनं वर्धयस्यस्माकं वै त्वमसि वयं वा तवास्मानभ्युपावर्तस्वेति ।

कथेति होवाच केन मोपमन्त्रयस इति ।

या इमा विरोचनस्य प्राह्लादेः कामदुघस्ताभिरिति ।

तथेति ।

ताभिर्ह प्र त्वित्येव प्रदुद्रुवतुः ।

तौ हासुरा अन्ववजहिरे ।

तौ हान्वाजग्मुः ।

स होवाचर्षेऽनु वै नाविमेऽसुरा आग्मन्निति ।

स वै तथा कुर्विति होवाच यथा नावेते नान्वागच्छानिति तौ हैतत्प्रतिपेदाते १२६