द्वे उ ह वाव सामनी स्तोभवच्चैवास्तोभवच्च ।
तयोर्यत्स्तोभवत्तत्क्षत्रमथ यदस्तोभवत्तद्ब्रह्म ।
उभयं ब्रह्म च क्षत्रं चावरुन्द्धे य एवं वेद ।
अथ यौधाजयं त्रिणिधनं सवनानां कॢप्त्यै ।
पवमानेन वै देवेभ्योऽन्नाद्यं प्रदीयते ।
तन्मध्येनिधनं भवत्यन्नाद्यस्य विशेषाय ।
यद्धि देवेभ्यस्सर्वमन्नाद्यं प्रदीयते न तदिहान्नद्यं परिशिष्येत यन्मनुष्याश्च पशवश्चोपजीवेयुः ।
तद्यन्मध्येनिधनं भवत्यन्नाद्यस्यैव विशेषाय ।
देवानां वा असुरा यज्ञवेशसमचिकीर्षन् ।
यावत्येतद्दक्षिणानां काले न स्तुवन्ति न शंसन्ति ।
तद्देवाः प्रत्यबुध्यन्त ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ते प्रातस्सवनमेव प्रथमेन निधनेन पर्यगृह्णन्माध्यन्दिनं द्वितीयेन तृतीयसवनं तृतीयेन ।
तानेव वज्रानुदयच्छन् ।
तानेव वज्रानुद्यतानसुरा नोपाधृष्णुवन् ।
ततो वै देवा अभवन्परासुराः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ।
अथ ह स क्ळ्प्त एव पवमानो यस्मिन्नधि त्रिणिधनं भवति सवनानामेव कॢप्त्यै १२४