यौधाजयेन वै देवा असुरान्संविच्य रौरवेणैषां रवमाणानां स्वमाददत ।
यौधाजयेनैव द्विषन्तं भ्रातृव्यं संविच्य रौरवेणास्य रवमाणस्य स्वमादत्ते य एवं वेद ।
रौरवेण वै देवा ऊर्ध्वास्स्वर्गं लोकमारोहन् ।
तानसुरा ओ वा इत्येवान्वारोहन् ।
तद्देवाः प्रत्यबुध्यन्त ।
त एतं स्तोभमपश्यन् ।
तेनैनानो हा उ वा इत्यवाचोऽवाघ्नन् ।
उत्सो देवो हिरा हा उ वा इति भूमिस्पृश एवाकुर्वन् ।
अन्तगतमिव सामासीत् ।
ऊर्ध्वस्स्वर्गो लोक एव यच्छेत् ।
ऊर्ध्वं प्रतिहारादुद्गाता ।
स्वर्गस्य लोकस्य समष्ट्यै ।
ण्याया औ हो वा हो इळा इति ।
स्वरेणैव सन्तत्य स्वर्गं लोकं समश्नुते ।
एतावन्ति ह खलु वै सामान्येतावती सामक्ळ्प्तिरेतावानु सामबन्धुः ।
स्वारं भवति ।
प्राणो वै स्वरः ।
अथ निधनवत् ।
आत्मा वै निधनम् ।
अथैळम् ।
पशवो वा इळा ।
प्राणमात्मानं पशूंस्तानेवैतत्सन्दधाति ।
सर्वयास्य सामकॢप्त्या सर्वेण सामबन्धुना स्तुतं भवति य एवं वेद १२३