तासु रौरवम् ।
अग्निर्वै रूरुरेतत्सामापश्यत् ।
यदग्नी रूरुरेतत्सामापश्यत्तद्रौ रवस्य रौरवत्वम् ।
रूर इतिवृध्रः पशुकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
स एतामिळां उपैत् ।
पशवो वा इळा ।
ततो वै पशूनवारुन्द्ध ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यदु रूर इतिवृध्रोऽपश्यत्तस्माद्वेव रौरवमित्याख्यायते ।
अथ यौधाजयम् ।
इन्द्रो वै युधाजीवन्नेतत्सामापश्यत् ।
यदिन्द्रो युधाजीवन्नेतत्सामापश्यत्तद्यौधाजयस्य यौधाजयत्वम् ।
अयुध इव द्विषन्तं भ्रातृव्यं जयति य एवं वेद ।
युधाजीवो वैश्वामित्रः प्रतिष्ठाकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स प्रत्यतिष्ठत् ।
तदेतत्प्रतिष्ठा साम ।
प्रतितिष्ठति य एवं वेद ।
यदु युधाजीवो वैश्वामित्रोऽपश्यत्तस्माद्वेव यौधाजयमित्याख्यायते १२२