त्रीणि ह वै छन्दांसि यज्ञं वहन्ति गायत्री त्रिष्टुब्जगती ।
तदेवानुष्टुबान्तादन्वायत्ता ।
तया देवास्स्वर्गं लोकमजिगांसन् ।
तया न व्याप्नुवन् ।
तस्यां चतुष्पदः पशूनुपादधुर्गां चाश्वं चाजां चाविं च ।
तया व्याप्नुवन् ।
तेऽब्रुवन्स्वर्गं लोकं गत्वा बृहती वा इयमभूद्ययेदं व्यापामेति ।
तदेव बृहत्यै बृहतीत्वम् ।
न ततः पुरा बृहती नाम छन्द आस ।
सा वा एषा पशव एव यद्बृहती ।
येन निधनमुपयन्ति तेन प्रस्तौति ।
तेनो एव पुनरादिमादत्ते ।
तस्मात्पशवो यत एव प्रजायन्ते ततस्सम्भवन्ति ।
ते तत एव पुनः प्रजायन्ते ।
न बृहत्या वषट्कुर्याद्पशूनामप्रवर्गाय ।
यद्बृहत्या वषट्कुर्याद्वज्रेण वषट्कारेण पशून्प्रवृञ्ज्यात् १२०