स स्तौषे इत्येव निधनमुपैत् ।
ता अतोषयत् ।
ता अस्य वशमायन् ।
तोषयति द्विषतो भ्रातृव्यान्वशमस्य स्वा आयन्ति य एवं वेद ।
स यदामहीयमाना अपश्यत्तदामहीयवस्यामहीयवत्वम् ।
यद्वेवैना वशे कृत्वामहीयत तद्वेवामहीयवस्यामहीयवत्वम् ।
आस्वान्वशे कृत्वा महीयते य एवं वेद ।
तद्येऽस्य स्वा अवशीकृता इव स्युरेतदेवैषां मध्य आसीनोऽधीयीत ।
वश एवैनान्कुरुते ।
उत्तरकुरवो हाहुरवषट्कृतस्यैव सोमस्य कुरुपञ्चाला भक्षयन्तीति ।
एकैकस्यै देवतायै होता वषट्करोति सर्वाभ्य उद्गाता ।
सर्वदेवत्यो ह्युद्गाता ।
आमहीयवस्य निधनेन वषट्कुर्यादिति ।
वषट्कृतस्यैव सोमस्य भक्षयन्ति ।
तदु ह स्माह मार्जश्शैलनो भ्रातृव्यान्वाव निधनेन तोषयतीति ।
पुरस्तादेव निधनस्य वषट्कुर्याद्वौषड्भूमी ओ ददा इति ।
वषट्कृतस्यैव सोमस्य भक्षयति ११८