११६

मरुत्वतीः प्रतिपदो भवन्ति ।

मरुत्वन्तं ग्रहं गृह्णन्ति मरुत्वान्वा इन्द्रो वृत्रमहन्वार्त्रहत्याय ।

उच्चा ते जातमन्धसा इत्यन्धस्वतीर्भवन्ति ।

अहर्वा अन्धः ।

अह्न एवारम्भः ।

यज्ञो वा अन्धः ।

यज्ञस्यैवारम्भः ।

त्रीणि यज्ञेऽन्धांसीति ह स्म पूर्वे ब्राह्मणा मीमांसन्ते उच्चा ते जातमन्धसा । वसोर्मन्दानमन्धसः । पुरोजिती वो अन्धसः इति ।

त्रयः पशुषु भोगाः प्रातर्मध्यन्दिने सायम् ।

तानेवैतेनावरुन्द्धे ।

इमौ वै लोकौ सह सन्तौ व्यैताम् ।

तयोर्न किं चन समपतत् ।

ते देवमनुष्या आशनायन् ।

इतःप्रदानाद्धि ते देवा जीवन्त्यमुतःप्रदानान्मनुष्याः ।

स एताः प्रजापतिरृचोऽपश्यदुच्चा ते जातमन्धसा इति ।

स उदित्येवेतो देवेभ्यो हव्यमवहद्दिवि सद्भूम्या ददे इत्यमुतो वृष्टिमाच्यावयत् ।

ताविमौ लोकौ सवासिनावकरोत् ।

तावस्मै कामं अपिन्वाताम् ।

काममस्मा इमौ लोकौ पिन्वाते य एवं वेद ।

तासु गायत्रमुक्तब्राह्मणम् ११६