तानि सर्वाण्यक्सराण्युद्धृत्य वाचं दध्यात् ।
वाग्वै ब्रह्म ।
तद्यथा चर्मणा कृतिकण्टकान्प्रावृत्यातीयादेवमेवैतद्वाचा ब्रह्मणा यज्ञस्थाणुं प्रमृद्य स्वस्त्यतिक्रामति नार्तिमार्छति ।
अव वा एतत्प्रतिहर्ता साम्नश्छिद्यते यद्गायत्रस्य न प्रतिहरति ।
प्रस्तूयमानं मनसा प्रतिहिङ्कुर्यात् ।
अपान्य वागिति ब्रूयात् ।
तथा साम्नो नावच्छिद्यते नार्तिमार्छति ।
यो वा अक्षरमंशुमद्वेद वहन्त्येनमंशुमतीस्संयुक्ताः ।
वाग्वा अक्षरम् ।
तस्यै प्राण एवांशुः ।
वहन्त्येनमंशुमतीस्संयुक्ता य एवं वेद ११५