११४

यो वा अंशुमेकाक्षरं वेदान्नाद एव श्रेष्ठस्स्वानां भवति ।

अथो सह एव तस्यै जनताया उद्गायति ।

वाग्वा अंशुरेकाक्षरः ।

तदेव गायत्रम् ।

गायत्र्यै प्रस्तुतायै यदादेरुत्तरमक्षरं स स्थाणुः ।

यस्तदुद्गायन्नारभते स्थाणुमारभते ।

य एनं निर्हरति गायत्रीं छिद्रां करोति ।

गायत्रीं छिद्रां अनु यज्ञस्स्रवति यज्ञमनु यजमानो यजमानमनु प्रजाः ।

सध्र्यश्वो ह स्माह तैग्मायुधिः क उ स्विदद्य रसदिहावुरसि निम्रदिष्यत इति ।

एते ह वै रसदिहौ ये एते गायत्र्या उत्तमे अक्षरे ।

यस्ते उद्गायन्नारभते रसदिहावुरसि निमर्दते ।

य उ एने निर्हरति गायत्रीं छिद्रां करोति ।

गायत्रीं छिद्रां अनु यज्ञस्स्रवति यज्ञमनु यजमानो यजमानमनु प्रजाः ११४