पितृदेवत्यं त्वस्य नोपगन्तवा इत्याहुः ।
एतद्ध वा अस्य पितृदेवत्यं यत्तान्तीकरोति ।
यदि सामि ताम्येन्मध्य ऋचोऽवान्यात् ।
प्राणो वा ऋक्प्राणो गायत्रम् ।
प्राणस्यतन्मध्ये प्राणं समानयते ।
यद्यु च इयात्प्राणापानव्यानान्गायेत् ।
प्राण इति द्वे अक्षरे अपान इति त्रीणि व्यान इति त्रीणि ।
तदष्टौ सम्पद्यन्ते ।
अष्टाक्षरा गायत्री ।
तेन गायत्र्यै नैति ।
साम्नोऽन्तररण्यं नावेत्यम् ।
यो ह वै साम्नोऽन्तररण्यमवैति सर्वज्यानिं वा जीयते प्र वा मीयते ।
एतद्ध वै साम्नोऽन्तररण्यं यत्प्रस्तुतमनभिस्वरितमादीयते ।
स्वरेण सम्पाद्योद्गायेत् ।
एतद्वै साम्नस्स्वं यत्स्वरः ।
स्वेनैवैनत्तत्समर्धयति ।
एतद्वै साम्नोऽन्नाद्यं यत्स्वराः ।
अन्नाद्येनैवैनत्तत्समर्धयति ।
एतद्वै साम्न आयतनं यत्स्वरः ।
आयतनेनैवैनत्तत्समर्धयति ।
एतद्वै साम्नः प्रियं धाम यत्स्वरः ।
प्रियेणैवैनत्तद्धाम्ना समर्धयति ११२