१११

प्रजापतिः प्रजा असृजत ।

ता अप्राणा असृजत ।

ताभ्य एतेनैव साम्ना प्राणमदधात् ।

प्राणो वै गायत्रम् ।

सर्वमायुरेति य एवं वेद ।

ताः प्राणं विविदाना रक्षांस्यन्वसचन्त ।

ता एतदेव साम गायन्नत्रायत ।

यद्गायन्नत्रायत तद्गयत्रस्य गायत्रत्वम् ।

त्रायत एनं सर्वस्मात्पाप्मनो य एवं वेद ।

तदूर्ध्वमिव गेयम् ।

ऊर्ध्वो वै स्वर्गो लोकः ।

स्वर्गस्यैव लोकस्य समष्ट्यै ।

त्र्यावृद्गेयम् ।

त्रयो वा इमे लोकाः ।

एषां लोकानामाप्त्यै ।

त्र्युदासं गेयम् ।

त्रयो वै प्राणापानव्यानाः ।

तेषां सन्तत्यै ।

समस्मै प्राणापानव्यानास्तायन्ते य एवं वेद ।

त्र्यावृद्गेयम् ।

त्रयो वा इमे लोकाः ।

एषां लोकानां सन्तत्यै ।

समस्मा इमे लोकास्तायन्ते य एवं वेद १११