१०८

स तेषां सकृदेवं सर्वेषामसृज्यन्त ।

तेषामग्निरेवोदजयत् ।

तस्यापगमनमगतस्याक्षोऽछिद्यत ।

तस्य रथचक्रं पतित्वा कृष्णाधिकां कोशान्तेन पर्यवर्तत ।

तमब्रुवन्नीक्षित्वान्नादो वा अयं श्रेष्ठो भविष्यति पाप्मा वा अस्य पर्यवर्तीति ।

स यो हैवं विद्वान्परिवर्तयतेऽन्नाद एव श्रेष्ठस्स्वानां भवत्यथो हास्य तं पाप्मानमेव परिवर्तयन्ति ।

सोऽग्निरुज्जित्य प्राद्र वत् ।

तमिन्द्रो ऽब्रवीत्सह नावस्त्विति ।

नेत्यब्रवीत् ।

यद्वा एको गृह्याणां विन्दते सर्वेषां वै तत्सह भवति ।

सहैव नावस्त्विति ।

नेत्येवाब्रवीत् ।

स वै माभि चिदवेक्षस्वेति ।

तमभ्यवैक्षत ।

सोऽब्रवीत्सान्त्वाय माभ्यवैक्षिष्ठास्सह नावभूदिति ।

यंयं न्वेवाहमभ्यवेक्षिष्य इत्यब्रवीत्तेनतेनैव मे सह भवैष्यतीति ।

नेत्येवाब्रवीत् ।

सान्त्वाय वै मा त्वमेनदभ्यवैक्षिष्ठास्सहैव नावभूदिति १०८