१०७

देवासुरास्संयत्ता ज्योङ्न व्यजयन्त ।

तेष्वसुरेष्विदं सर्वमासीत् ।

अथैकमेवाक्षरं देवेष्वासीत् ।

वागेव ।

सोऽग्निरब्रवीदहं वा इदमदर्शं यथेदं जेष्यामीति ।

तद्वै ब्रूहीत्यब्रुवन् ।

सोऽब्रवीदक्षरेणैवेदं सर्वं सन्निधाय धुराधुरमासजामेति ।

यदब्रवीदक्षरेणैवेदं सर्वं सन्निधाय धुराधुरमासजामेति तदाज्यधुरामाज्यधूस्त्वम् ।

तेऽक्षरेणैवेदं सर्वं सन्निधाय धुराधुरमासजन् ।

तानजयन् ।

जयति स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद ।

स यदीतरा धुरो विगायेद्व्येवाज्यधुरो गायेत् ।

स यो हैवं विद्वान्सङ्ग्रामयोस्सन्निहितयोर्ब्रूयादक्षरेण त्वा सन्निदधामीति परं ग्रामं स हैव तं ग्रामं जयति ।

अथो यस्मिन्नेवंविद्ग्रामे भवति स उ हैव तं ग्रामं जयति ।

ते देवा अब्रुवन्वीमानि भजामहा इति ।

तस्मादु गिरिः काष्ठो नाम १०७