१०६

तेषां पच्छोऽसृज्यन्त ।

तेषामग्निः प्रथम उदजयत् ।

अथ मित्रावरुणावथेन्द्रः ।

अथैकमनुज्जितमासीत् ।

तदिन्द्रो ऽवेदग्निर्वावेदमुज्जेष्यतीति ।

सोऽब्रवीदग्ने यतर आवयोरिदमुज्जयात्तन्नौ सहासदिति ।

तथेति ।

तदग्निरुदजयत् ।

तदेनयोस्सहाभवदध्यर्धमन्यस्य स्तोत्रमध्यर्धमन्यस्य ।

षन्द्रा ग्नो यज्ञः ।

स य एवमेता देवानामुज्जितीर्वेद यत्र कामयत उदिह जयेयमित्युत्तत्र जयति ।

तदाहुर्यदाज्यानि सर्वाणि समाननिधनानि केनाजामि क्रियन्त इति ।

नानादेवत्यानीति ब्रूयात्तेनाजामीति ।

अथो यन्नानारूपाणीति ब्रूयात्तेनो एवेति ।

ते वा एते पशव एव ।

यदाज्यान्यन्तसदसं स्तुवन्ति तस्माद्ग्राम्याः पशवोऽन्तर्ग्रामे न्योकसः ।

पराचीषु पुनरभ्यावर्तन्त ।

तस्माद्ग्राम्याः पशवः पराञ्चः प्रातः प्रेरते ते सायं समावर्तन्ते ।

नानारूपासु स्तुवन्ति ।

तस्माद्ग्राम्याः पशवो नानारूपाः ।

नानादेवत्यासु स्तुवन्ति ।

तस्माद्ग्राम्याः पशवो नाना ।

ते यथायथं सायं गृहानभ्युपायन्ति १०६