१०५

देवासुरा वा एषु लोकेष्वस्पर्धन्तास्मिन्भुवने ।

ते देवा अकामयन्तेमाल्ँ लोकाञ्जयेमासुरान्स्पर्धां भ्रातृव्यानिति ।

त एतान्याज्यानि स्तोत्राण्यपश्यन् ।

तैरस्तुवत ।

तैरिमानाजयन् ।

इमानेव लोकमाग्नेयेनाजयन्नन्तरिक्षं मैत्रावरुणेनामुमैन्द्रे ण दिश एवैन्द्रा ग्नेन ।

तद्यदिमाल्ँ लोकानाजयंस्तदाज्यानामाज्यत्वम् ।

एमाल्ँ लोकाञ्जयति स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद ।

ते देवा अब्रुवन्वीमानि भजामहा इति ।

तेषां ह विभागे न समपादयन् ।

तेऽब्रुवनाजिमेषामयाम गिरिं काष्ठां कृत्वेति ।

यदब्रुवनाजिमेषामयामेति तदेषां द्वितीयमाज्यत्वम् ।

यदु गिरिं काष्ठामकुर्वंस्तस्मादसौ गिरिः काष्ठो नाम १०५