तदाहुस्समदमिव वा एतच्छन्दोभ्यः कुर्वन्ति यद्गायत्रे सति प्रातस्सवने सर्वाणि छन्दांस्यभिगीयन्ते योधुकाः प्रजा भवन्तीति ।
स यः कामयेत शान्ताः प्रजा एधेरन्निति न धुरो विगायेत् ।
अपशीर्षाणं तु यज्ञं यजमानस्य कुर्यादनृतेन दक्षिणाः प्रतिगृह्णीयात् ।
ब्रह्म वै करदिति वै यजमानो दक्षिणा ददाति ।
स तथैव चिकीर्षेद्यथा नापशीर्षाणं यज्ञं यजमानस्य कुर्यान्नानृतेन दक्षिणाः प्रतिगृह्णीयात् ।
व्येव गायेत् ।
यस्त्वा एना विजिगासन्न शक्नोति विगातुमार्तिमार्च्छति ।
यदि रेतस्यां न शक्नोति विगातुमरेतस्क आत्मना भवति अरेतस्का गर्भा जायन्ते ।
यदि गायत्रीं न शक्नोति विगातुं प्रमायुक आत्मना भवति मृता गर्भा जायन्ते ।
यदि त्रिष्टुभं न शक्नोति विगातुमन्ध आत्मना भवत्यन्धा गर्भा जायन्ते ।
यदि जगतीं न शक्नोति विगातुं बधिर आत्मना भवति बधिरा गर्भा जायन्ते ।
यद्यनुष्टुभं न शक्नोति विगातुमजिह्व आत्मना भवति अजिह्वा गर्भा जायन्ते ।
यदि पङ्क्तिं न शक्नोति विगातुमृतवो लुभ्यन्ति ।
स य एना नाशंसेत विगातुं परोक्षेणैवैनास्स रूपेण गायेत् ।
उभयेन त्वाव रेतस्या गीयते १०३