गायत्रीं गायति ।
प्राणो वै गायत्री ।
तस्यै द्वे अक्षरे व्यतिषजति ।
प्राणापानावेव तद्व्यतिषजति ।
तस्मात्प्राणापानौ व्यतिषक्तौ प्रजा अनुसञ्चरत आ च परा चायातयामानौ ।
सदिति निधनं करोति ।
प्राणो वै सन् ।
प्राण एव तत्प्रतितिष्ठति ।
त्रिष्टुभं गायति ।
चक्षुर्वै त्रिष्टुप् ।
तस्यै द्वे अक्षरे द्योतयति ।
चक्षुषी एव तद्दधाति ।
तस्माद्युक्ते इव चक्षुषी ।
ज्योतिः इति निधनं करोति ।
चक्षुर्वै ज्योतिः ।
चक्षुष्येव तत्प्रतितिष्ठति ।
जगतीं गायति ।
श्रोत्रं वै जगती ।
तस्यै चत्वार्यक्षराणि द्योतयति ।
श्रोत्रमेव तद्दधाति ।
श्रोत्रे द्वे परिश्रवणे द्वे ।
तस्मात्समानत्र सन्सर्वा अनुदिशश्शृणोत्यपि पराङ्यन्पश्चाद्वदतश्शृणोति ।
इळा इति निधनं करोति ।
पशवो वा इळा ।
पशुष्वेतत्प्रतितिष्ठति ।
अनुष्टुभं गायति ।
वाग्वा अनुष्टुप् ।
तामर्वाचीमभिनुदन्गायति वाचोऽनपक्रमाय ।
यत्पराचीमपनुदन्गायेद्वाचं प्रधमेद्वागस्मादपक्रामुका स्यात् ।
तां यदर्वाचीमभुनुदन्गायत्यात्मन्नेव तद्वाचं प्रतिष्ठापयति ।
तस्यै निरुक्तं चानिरुक्तं च पदे गायति ।
निरुक्तेन वै वाचो भुञ्जतेऽनिरुक्तमस्या उपजीवनीयम् ।
भुङ्क्ते वाचोप चैनां जीवति य एवं वेद ।
स यन्निरुक्तमेव गायेद्वदेयुरेव प्रजा न तूष्णीमासीरन् ।
अथ यदनिरुक्तं गायेद्तूष्णीमेव प्रजा आसीरन्न वदेयुः ।
यस्मान्निरुक्तं चानिरुक्तं च पदे गायति तस्मात्प्रजा वदन्ति च तूष्णीं चासते ।
वागिति निधनं करोति ।
वाग्वै ब्रह्म ।
वाच्येव तद्ब्रह्मन्प्रतितिष्ठति ।
पङ्क्तिं गायति ।
ऋतवो वै पङ्क्तिः ।
तस्यै षडक्षराणि द्योतयति ।
षड्वा ऋतवः ।
ऋतुष्वेव तत्प्रतितिष्ठति १०२