१०१

तदाहुर्हिङ्कारेण वै प्रजापतिः प्रजाभ्योऽन्नाद्यमसृजत ।

यन्न हिङ्कुर्यादशनायुकाः प्रजास्स्युः ।

हिङ्कुर्यादेव ।

भूः इति ।

यन्न हिङ्कारं विसृजति तेन रेतो विच्छिनत्ति न हिङ्कारमन्तरेतीति ।

तदु वा आहुः ममृदीय इव वा अतो रेतो दारुणतर इव ।

हिङ्कारोऽपि वैनद्वालेन विच्छिन्द्यात् ।

हिङ्कारस्यैव काले हिङ्कारं मनसा ध्यायेत् ।

तन्न रेतो विच्छिनत्ति न हिङ्कारमन्तरेतीति ।

भूः इति निधनं करोति ।

प्रजापतिर्यदग्रे व्याहरत्स भूः इत्येव व्याहरत् ।

स इमामसृजत ।

स यद्भूः इति निधनं करोत्यस्यामेवैतद्रे तः प्रतिष्ठापयत्यथो एनत्तद्भूतिमेव गमयति १०१