रेतस्यां गायति ।
रेतस्तत्सिञ्चति ।
सन्ततमिव गायति ।
सततिमिव वै रेतः ।
परोक्षमेव प्रथमे गायति ।
परोक्षमिव वै रेतः ।
नर्चमुपस्पृशेत् ।
यदृचमुपस्पृशेद्रे तो विच्छिन्द्यात् ।
त्र्युदासां गायति ।
प्राणमेव प्रथमेनोदासेन परिगृह्णात्यपानं द्वितीयेन व्यानं तृतीयेन ।
त्र्युदासां गायति ।
आत्मानमेव प्रथमेनोदासेन परिगृह्णाति जायां द्वितीयेन प्रजां तृतीयेन ।
त्र्युदासां गायति ।
इममेव लोकं प्रथमेनोदासेनाभ्यारोहत्यन्तरिक्षं द्वितीयेनमुं तृतीयेन ।
स यो हैवं विद्वांस्त्र्युदासां गायत्यभि ह भ्रातृव्यलोकाय विजयते ।
स यो भ्रातृव्यलोकं चिच्छित्सेद्द्व्युदासामेव गायेत् ।
ओषमस्य द्विषन्भ्रातृव्यः पराभवति श्रियमात्मनाश्नुते ।
ईश्वरो ह तु प्रमायुको भवितोः ।
प्राणेभ्यो ह्येति त्र्युदासायै ।
स तथैव चिकीर्षेद्यथा सर्वमायुरियात् ।
अन्येन भ्रातृव्यलोकं चिच्छित्सेद् ।
त्र्युदासामेव गायेत् ।
न हिङ्कुर्यात् ।
यद्धिङ्कुर्याद्वज्रेण हिङ्कारेण रेतो विच्छिन्द्यात् १००