तेषां प्राणमेव गायत्र्यावृञ्जत चक्षुस्त्रिष्टुभा श्रोत्रं जगत्या वाचमनुष्टुभा ।
अस्मादेवैनाल्ँ लोकाद्गायत्र्यान्तरायन्नन्तरिक्षात्त्रिष्टुभामुष्माज्जगत्या पशुभ्योऽनुष्टुभा ।
तान्सर्वस्मादेवान्तरायन् ।
ततो वै देवा अभवन्परासुराः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ।
यद्देवा असुरानधूर्वंस्तद्धुरां धूस्त्वम् ।
धूर्वति द्विषन्तं भ्रातृव्यं य एवं वेद ।
प्रजापतिर्यत्प्रजा असृजत ता धूर्भिरेवासृजत ।
रेत एव रेतस्ययासिञ्चत्प्राणं गायत्र्या समैरयच्चक्षुस्त्रिष्टुभा श्रोत्रं जगत्या वाचमनुष्टुभा ।
आत्मानमेव पङ्क्त्या प्रत्युपादधात् ।
प्रजापतिरेव भूतः प्रजास्सृजते य एवं विद्वान्धूर्भिरुद्गायति ९९