\स्वप्नं तन्द्रीं मन्युमशनयामक्षकाम्यां स्त्रीकाम्यामिति ।
एते ह वै पाप्मानः पुरुषमस्मिल्ँ लोके सचन्ते ।
य एतदग्ने तीर्त्वास्मिल्ँ लोके साधु चिकीर्षात्तत्त्वमस्मिल्ँ लोके धीप्सतादित्यग्निमस्मिल्ँ लोकेऽदधुः ।
वायुमन्तरिक्ष आदित्यं दिवि ।
उग्रदेवो ह स्माह राजनिर्नाहं मनुष्यायारातीयामि यानस्मै त्रीन्देवानां श्रेष्ठानरातीयतोऽशृणोम् ।
अरातीतमरातीतं ह्येव तस्मै यस्मा एता देवता अरातीयन्तीति ।
अथो हास्मा एता देवता नारातीयन्ति य एवं वेद ।
अथो ह तमेव धीप्सन्ति य एवं विद्वांसं धीप्सतीति ।
ते देवा अब्रुवन्या एवेमा देवताश्छन्दांसि पुरुषे प्रविष्टा एताभिरेवासुरान्धूर्वामैवेति ९८