देवासुरा अस्पर्धन्त ।
ते देवा वज्रं क्षुरपविमसृजन्त पुरुषमेव ।
तमसुरानभ्यवृञ्जन् ।
सोऽसुरानपोह्य देवानभ्यावर्तत ।
तस्माद्देवा अबिभयुः ।
तमभिपद्य त्रेधा समशृणन् ।
स त्रेधा संशीर्ण उदेवातिष्ठत् ।
तमारभ्य पर्यैक्षन्त ।
तस्मिन्देवताश्छन्दांसि पुरुषे प्रविष्टा अपश्यन् ।
तेऽब्रुवन्देवता वै छन्दांसीमा अस्मिन्पुरुषे प्रविष्ठाः ।
अस्मिन्वा अयं लोके पुण्यं जीवित्वेष्टापूर्तेन तपसा सुकृतेनास्मानन्वागमिष्यतीति ।
ते वै तथा करवामेत्यब्रुवन्यथा नो नान्वागच्छादिति ।
तस्मै वै पाप्मानमन्ववदधामेति तस्मा एतं पाप्मानमन्ववादधुः ९७