एते असृग्रमिन्दवः इति बहूनां संयजमानानां प्रतिपदं कुर्यात् ।
एते इत्येवैनाञ्ज्यैष्ठ्यायाभिवदति छन्दसैवैनान्रूपिणा समावद्भाजः करोति ।
समावत्येनान्यज्ञस्याशीरागच्छति ।
प्रजापतिर्यत्प्रजा असृजत ता एनयैव प्रतिपदासृजत ।
एते इत्येव देवानसृजत असृग्रमिति मनुष्यानिन्दवः इति पितॄंस्तिरः पवित्रमिति ग्रहानाशवः इति स्तोमान्विश्वानि इत्युक्थानि अभि सौभगा इत्येवैनाञ्जातान्सौभाग्येनाभ्यानक् ।
प्रजापतिरेव भूतः प्रजास्सृजते य एवं विद्वानेतया प्रतिपदोद्गायति ।
अथो हैनास्तत्सौभाग्येनैवाभ्यानक्ति ।
असृक्षत प्र वाजिनः इति त्रयाणां संयजमानानां प्रतिपदं कुर्यात् ।
छन्दसैवैनान्रूपिणा समावद्भाजः करोति ।
समावत्येनान्यज्ञस्याशीरागच्छति ।
गव्या सोमासो अश्वया इति गोअश्वमेवैभ्य एतेनावरुन्द्धे ।
शुक्रासो वीरयाशवः इति यज्ञो वै शुक्रः प्रजा वीरो यज्ञं चैवैभ्य एतेन प्रजां चावरुन्द्धे ।
युवं हि स्थः स्वःपती इति द्वयोस्सम्यजमानयोः प्रतिपदं कुर्यात् ।
छन्दसैवैनौ रूपिणा समावद्भाजौ करोति ।
समावत्येनौ यज्ञस्याशीरागच्छति ९४