०९३

\ब्रह्मवर्चसकामः ।

अग्निर्वै देवानां ब्रह्मा ।

अग्निनैव देवानां ब्रह्मणा वर्चसी भवति ।

एतामेव प्रतिपदं कुर्वीताभिचरन् ।

अग्निर्वै देवानां ब्रह्मा ।

अग्निनैव देवानां ब्रह्मणा यं द्वेष्टि तं स्तृणुते ।

एतामेव प्रतिपदं कुर्वीतान्नाद्यकामः ।

आ सुवोर्जमिषं च नः इति ह्यस्या इषं चैवैतेनोर्जं चावरुन्द्धे ।

एतामेव प्रतिपदं कुर्वीताभिचर्यमाणः ।

यो वा अभिचरति योऽभिदासति यः पापं कामयते स वै दुच्छुनः ।

आरे बाधस्व दुच्छुनामित्यारादेवैतेन द्विषन्तं पाप्मानं भ्रातृव्यमवाञ्चमपबाधते ।

दविद्युतत्या रुचा इति ब्रह्मवर्चसकामः प्रतिपदं कुर्वीत ।

दविद्युतती वै गायत्री ।

गायत्री ब्रह्मवर्चसमोजो वीर्यं त्रिष्टुप्प्रजननं जगती ।

ब्रह्मवर्चस्योजस्वी वीर्यवान्प्रजया पशुभिर्जायते य एवं वेद ।

परिष्टोभन्त्या कृपा सोमाश्शुक्रा गवाशिरः इति ।

यज्ञो वै सोमाश्शुक्राः पशवो गवाशिरः ।

यज्ञं चैवैतेन पशूंश्चावरुन्द्धे ।

अस्य प्रत्नामनु द्युतमिति प्रतिपदं कुर्वीत यस्य पिता वा पितामहो वा श्रेयान्स्यादथात्मना पापीयानिव मन्येत ।

यैवास्य पित्र्या पैतामही श्रीस्तामेवाश्नुते ।

शुक्रं दुदुह्रे अह्रयः इति ।

यज्ञो वै शुक्रः पशवोऽह्रयः ।

यज्ञं चैवैतेन पशूंश्चावरुन्द्धे ।

पयस्सहस्रसामृषिमिति ।

पयस्वानेव भवत्यास्य सहस्रसा वीरो जायते ९३