०९२

पवस्वेन्दो वृषा सुतः इति जने प्रतिष्ठाकामः प्रतिपदं कुर्वीत ।

कृधी नो यशसो जनः इति ह्यस्यै यशस्येव जने भवति ।

वृषा सुतः इति वृषेव वै प्रजनितेवाधिपतिरिव तस्यां जनतायां भवति यस्यामृध्यते ।

वृषेवैव प्रजनितेवाधिपतिरिव तस्यां जनतायां भाति यस्यां भवति य एवं वेद ।

सर्वो ह वै जने बुभूषतेऽरातीयति ।

विश्वा अप द्विषो जहि इति विश्वा एवैतेन द्विषोऽपहते ।

तया पवस्व धारया इति सङ्ग्रामं संयतिष्यमानस्य प्रतिपदं कुर्यात् ।

यया गाव इहागमञ्जन्यास उप नो गृहानिति जन्या वा एष गा आजिहीर्षति यस्सङ्ग्रामं संयतते ।

आ जन्या गा हरति ।

एतामेव प्रतिपदं कुर्वीत सनिं प्रैष्यन् ।

जन्या वा एष गा आजिहीर्षति यस्सनिं प्रैति ।

आ जन्या गा हरत्युपैनं जन्या गावो नमन्ति य एवं वेद ।

अग्न आयूंषि पवसे इत्यामयाविनः प्रतिपदं कुर्यात् ।

अग्निं वा एतस्य शरीरमप्येति वायुं प्राणः ।

अग्निनैवास्य पवमानेन शरीरं प्राणेन सन्दधाति ।

एतामेवं प्रतिपदं कुर्वीरन्येषां दीक्षितानां प्रमीयते ।

अपूता इव वा एतेऽमेध्या मन्यन्ते येषां दीक्षितानां प्रमीयते ।

अग्निनैवैनान्पवमानेन पूतान्मेध्यान्करोति एतामेव प्रतिपदं कुर्वीत ९२