पवस्व वाचो अग्रियः इति श्रैष्ठ्यकामः प्रतिपदं कुर्वीत ।
प्रजापतिः प्रजा असृजत ।
ता एनं सृष्टा नापाचायन् ।
सोऽकामयत श्रैष्ठ्यमासां प्रजानां गच्छेयमिति ।
स एतां प्रतिपदमपश्यत् ।
तयास्तुत ।
ततो वै स तासां प्रजानां श्रैष्ठ्यमगच्छत् ।
गच्छति स्वानां श्रैष्ठ्यं य एवं वेद ।
एषो ह वै समृद्धा स्तोत्रिया यस्यै पवस्व इत्यारम्भः ।
समृद्धयैवास्य स्तोत्रियया स्तुतं भवति ।
यो वै दैव्यं मिथुनं वेद प्र मिथुनेन जायते ।
पवस्व इति च वाचः इति च दैव्यं मिथुनम् ।
प्र मिथुनेन जायते य एवं वेद ।
सर्वेषां वा एषा त्रयाणां साम्नां प्रतिपत्पवस्व इति वामदेव्यस्य वाचः इति रथन्तरस्य अग्रियः इति बृहतः ।
सर्वेषामस्य साम्नां प्रतिपदा स्तुतं भवति ।
सोम चित्राभिरूतिभिः इति सोमो वै देवानां चित्रं सोमेनैव देवानां चित्रेण बहुर्भवति प्रजायते ।
अभि विश्वानि काव्या इति विश्वमेवैतेन काव्यमवरुन्द्धे ९१