०९०

उपास्मै गायता नरः इति ग्र्तामकामो भूतिकामः प्रजननकामः प्रतिपदं कुर्वीत ।

अस्यै वावेदमुपगायन्ति ।

उप वावेदमस्यां सर्वमुपैवास्यां प्रजया पशुभिः प्रजायते य एवं वेद ।

नरो ह वै देवविशः क्षत्रं सोम इन्दुः ।

विशं चैवैतेन क्षत्रं चावरुन्द्धे ।

अभि देवं इयक्षते इति सर्वा एवैतेन देवता अनन्तरायमभियजते ।

उपो षु जातमप्तुरमिति प्रजाकामः प्रतिपदं कुर्वीत ।

उपेव वा आत्मन्प्रजया पशुभिः प्रजायते ।

एतां एवापरेद्युः प्रतिपदं कुर्वीत ।

अप्तुरमिति ह्यस्या आप्त्वा श्रेयांसं वसीयानात्मना भवति ।

गोभिर्भङ्गं परिष्कृतमिति ।

यज्ञो वै गोभिर्भङ्गः पशवः परिष्कृतः ।

यज्ञं चैवैतेन पशूंश्चावरुन्द्धे ।

इन्दुं देवा अयासिषुः इति ।

यजमानो वै सोमो राजेन्दुस्स्तोमा देवाः ।

स्तोमा एवैनं स्वर्गं लोकं गमयन्ति ९०