प्रजापतिं कल्पयित्वोद्गायेत् ।
यो ह वै प्रजापतिं कल्पयित्वोद्गायति कल्पतेऽस्मै दिशः प्रदिश आदिशो विदिश उद्दिशो दिश इति ।
दिशो वै प्रजापतिः ।
प्रजापतिमेव तत्कल्पयित्वोद्गायति ।
कल्पतेऽस्मै य एवं वेद ।
कपिवनो ह स्माह भौवायनः किं ते यज्ञं गच्छन्ति यदेव सोमस्याभक्षयित्वा प्र वा सर्पन्ति प्र वा धावयन्तीति ।
बहिष्पवमानमुपसन्नेषु ब्रूयाद्यं ब्रह्माणं शुचिमिव मन्येताहरहस्तमिति ।
तेन समुपहूयाथानुमन्त्रयेत
यो देवानामिह सोमपीथोऽस्मिन्यज्ञे बर्हिषि वेद्याम्
तस्येदं भक्षयामसि
इति ।
यदि च ह प्रधावयति यदि च नाथ हास्य भक्षित एव देवस्सोमो भवति ।
एतदायतना वा आरण्याः पशवः ।
यद्बहिष्पवमानमरण्ये स्तुवन्ति तस्मादारण्याः पशवोऽरण्यं सचन्ते ।
पराचीषु स्तुवन्ति ।
तस्मादारण्याः पशवोऽरण्यादेवारण्यमभिप्रेरते ।
एकरूपासु स्तुवन्ति ।
तस्मादारण्याः पशव एकरूपाः ।
आवदुत्तममक्षरं भवति ।
तस्मादेकैकोऽन्योऽचलो ग्रामेऽधिगम्यते ।
अथो अरण्ये हतं ग्राममभ्यवहरन्ति ।
स्तुत्वोद्द्रवन्ति ।
यजमानमेव तत्स्वर्गं लोकं गमयन्ति ।
बाहूनुद्गृह्णन्ति ।
यजमानमेव तत्स्वर्गे लोके समादधति ।
ते वै तदनृतं कुर्वन्ति ये मर्त्यं सन्तममृतत्वं गमयन्ति ।
ते रूपेण वर्चसा व्यृध्यन्ते ।
स य एतदेवान्य उत्तिष्ठेत्तमुत्तिष्ठन्तमारभ्यानूत्तिष्ठेत् ।
न रूपेण वर्चसा व्यृध्यते नार्तिमार्छति ।
भविष्यद्विजानीयात् ।
यद्येताः प्रजा दोद्रुवा इव स्युर्दोद्रुवो योगक्षेमो भविष्यति ।
तयायमुद्गातोदगासीदिति विद्यात् ।
यद्यु शान्ता इव स्युश्शान्तो योगक्षेमो भविष्यति ।
तथायमुद्गातोदगासीदिति विद्यात् ।
एषो ह विज्ञा ८९