०८८

रथन्तरवर्णामुत्तमां गायन्ति ।

इयं वै रथन्तरम् ।

अस्यामेवैतत्प्रतितिष्ठति ।

प्रजापतिः प्रजा असृजत ।

ता एनं सृष्टा अन्नकाशिनीरभितस्समन्तं पर्यविशन् ।

ताभ्यो हिङ्कारेणान्नाद्यमसृजत ।

तदॐकारेण सृष्टमवारयत ।

प्रजापतिरेष यदुद्गाता ।

तमेतत्प्रजा अन्नकाशिनीरभितस्समन्तं परिविशन्ति ।

ताभ्यो हिङ्कारेणैवान्नाद्यं सृजते ।

तदॐकारेण सृष्टं वारयते ।

स यद्धिङ्कृत्येनॐकुर्यात्पराङ्देवान्नाद्यमियात् ।

यत्साम प्रथममभिव्याहरेत्क्षत्रं बलमृच्छेत् ।

क्षत्रं हि साम ।

यदृचं प्रथममभिव्याहरेद्विशं बलमृच्छेत् ।

विड्ढ्यृक् ।

यद्यजुः प्रथममभिव्याहरति ब्रह्म वै यजुर्ब्रह्मवर्चसमेतत्करोति ।

भूर्भुवस्स्वः ।

मधु करिष्यामि ।

मधु जनयिष्यामि ।

मधु भविष्यति ।

भद्रं भद्र म् ।

इषमूर्जमिति ।

यद्भूर्भुवस्स्वः इत्येतद्वै ब्रह्मैतद्यजुः ।

यन्मधु करिष्यामि इति प्रजा वै मधु ता एव तत्करोति ।

यन्मधु जनयिष्यामि इति प्रैवैनास्तज्जनयति ।

यन्मधु भविष्यति इति भूतिमेवैनास्तद्गमयति ।

भद्रं भद्र मिति यद्वै पुरुषस्य वित्तद्भद्रं गृहा भद्रं प्रजा भद्रं पशवो भद्रं तदेवैतेनावरुन्द्धे ।

इषमूर्जमिति वर्षं वा इषे यदुपरिष्टाद्वर्षस्यैधते तदूर्जे तदेवैतेनावरुन्द्धे ८८