प्राणान्वै तत्सन्तत्य स्वर्गं लोकं सर्पन्ति यदन्तर्हविर्धाने ग्रहान्गृहीत्वा बहिष्पवमानं सर्पन्ति ।
सन्ततास्सर्पन्ति ।
सन्तत इव वै स्वर्गो लोकः ।
स्वर्गस्यैव लोकस्य सन्तत्या अव्यवच्छेदाय ।
प्रावभ्रा इव सर्पन्ति ।
प्रतिकूलमिव वा इतस्स्वर्गो लोकः ।
तद्यथा वा अदः प्रतिकूलमुद्यन्प्रावभ्र इव भवत्येवमेवैतत् ।
स्वर्गस्य लोकस्य समष्ट्या अनपव्याधाय ।
अध्वर्युः प्रथमस्सर्पति प्राणो यज्ञस्य ।
तस्माद्यदवच्छिद्येरन्प्राणादवच्छिद्येरन्प्रमायुकास्स्युः ।
प्रस्तोता द्वितीयस्सर्पति मुखं साम्नः ।
तस्माद्यदवच्छिद्येरन्मुख्यं आर्तिमार्छेयुः ।
उद्गाता तृतीयस्सर्पति सर्वदेवत्यः प्रजापतिः ।
तस्माद्यदवच्छिद्येरन्सर्वज्यानिं जीयेरन् ।
प्रतिहर्ता चतुर्थस्सर्पति तुरीयं साम्नः ।
तस्माद्यदवच्छिदेरंस्तुरीयेणात्मनो यातयेयुः ।
यजमानः पञ्चमस्सर्पति ।
पाङ्क्तो यज्ञः पाङ्क्ताः पशवः ।
तस्माद्यदवच्छिद्येरन्यज्ञात्पशुभ्योऽवच्छिद्येरन् ८५