अध्वर्युः प्रस्तरं हरन्सर्पति ।
तमनुमन्त्रयते एतदहं दैव्यं वाजिनं सम्मार्ज्मि इति ।
सम्मृष्टमेवैनं शान्तमारोहति नार्तिमार्छति ।
देवक्षेत्रं वा एषोऽध्यवस्यति यस्सोमस्योद्गायति ।
य इन्नु मानुषाय क्षेत्रपतयेऽप्रोच्यावस्यति तमिन्नु स हिनस्ति वा प्र वा यापयति ।
अथ किं यो दैव्याय क्षेत्रपतयेऽप्रोच्यावस्यात् ।
सोमोद्गायोद्गाय सोम इत्याह ।
सोमो वै देवानां क्षेत्रपतिः ।
सोमायैव तद्देवानां क्षेत्रपतये प्रोच्योद्गायति नार्तिमार्छति ।
मह्यं तेजसे मह्यं ब्रह्मवर्चसाय मह्यमन्नाद्याय मह्यं भूम्ने मह्यं पुष्ट्यै मह्यं प्रजननाय प्रजानां भूम्ने प्रजानां पुष्ट्यै प्रजानां प्रजननाय सोमस्य राज्ञो राज्याय मम ग्रामणेयाय इति ।
ग्रावो ह स्माह मैत्रेयः किं ममेकस्मा आगास्यामि किमेकस्मा इति ।
एतेन ह स्म वै स तदाह सोमोद्गायोद्गाय सोमेदममुष्मा इदममुष्मै इति ।
ते ह स्मास्मै कामास्समृध्यन्ते ।
देवपाशा वा एते वितायन्ते यद्धिष्ण्या अग्नयो विह्रियन्ते ।
तान्यो विद्वानभ्यवैति देवपाशान्प्रतिमुञ्चते ।
एषा वै यज्ञस्य द्वार्यदन्तराग्नीध्रं च चात्वालं च ।
तयाभ्यवेयात् ।
तयोदेयात् ।
धा वै नाम वेदिः ।
तामभ्यवयन्ब्रूयाद्धा असि सुधां मे धेहि ।
आयुष्मन्तस्त्वद्वर्चस्वन्त उद्गेष्म इति ।
न देवपाशान्प्रतिमुञ्चते नार्तिमार्छति ८४