अरण्यमिव वा एते यन्ति ये बहिष्पवमानं सर्पन्ति ।
तानीश्वरो रक्षो वा हन्तोरन्या वा नंष्टृआ ।
अथ द्वितीयां जुहोति सूर्यो मा देवो दिव्येभ्यो रक्षोभ्यः पातु वात आन्तरिक्षेभ्योऽग्निः पार्थिवेभ्यस्स्वाहा इति ।
य एवैषां लोकानामधिपतयस्तेभ्य एवैतदात्मानं परिदाय सर्पति नार्तिमार्छति ।
प्रजापतिर्यद्यज्ञमसृजत तं हविर्धान एवासृजत ।
स सृष्ट उदङ्प्राद्र वत् ।
तमेतदत्राप्त्वास्तुवन् ।
यत्रैतदुदञ्चयित्वा बहिष्पवमानेन स्तुवन्ति यज्ञमेवैतदाप्त्वा स्तुवन्ति ।
यो वै दैव्यं वाजिनं वेद वाजी भवति ।
यज्ञो वाव दैव्यो वाजी ।
य इन्नु मानुषं वाजिनमशान्तमसम्मृष्टमारोहति तमिन्नु स हिनस्ति वा प्र वा क्षिणोति ।
अथ किं यो दैव्यं वाजिनमशान्तमसम्मृष्टमारोहात् ८३