क्रूरमिव वा एतद्यज्ञस्य कुर्वन्ति यद्धविधाने ग्रावभिस्सोमं राजानं हत्वा बहिष्पवमानं सर्पन्ति ।
का तस्य प्रायश्चित्तिरित्याहुरप उपस्पृशेयुः ।
आपो वै सर्वस्य शान्तिः ।
अद्भिरेवैनत्तच्छमयन्ति ।
वाग्वा एतस्मा अग्रेऽध्वनेऽतन्द्रा यत बहिष्पवमानं सर्पन्ती ।
तां प्रजापतिरब्रवीद्भागधेयं ते करोम्यथ सर्पेति ।
बहिष्पवमानं सप्स्यन्होमं जुहुयाज्जुष्टो वाचो भूयासं जुष्टो वाचस्पत्युः ।
देवि वाग्यत्ते वाचो मधुमत्तस्मिन्मा धाः ।
स्वाहा सरस्वत्यै इति ।
यत्सरस्वत्यै स्वाहा इति जुहुयाद्वाचं सरस्वतीं स्वाहाकारेण परिगृह्णीयात् ।
अथ यत्स्वाहा सरस्वत्यै इति जुहोति वाचं तदुत्तरां स्वाहाकाराद्दधाति ।
तया परिगृहीतया यज्ञं तनुते ।
वाचा ह्यूर्ध्वो यज्ञस्तायते ।
वेकुरा नामासि प्रेषिता दिव्याय कर्मणे शिवा नस्सुयमा भव ।
सत्याशीर्यजमानाय स्वाहा इति वा जुहुयात् ।
वाग्वै वेकुरा ।
ब्रह्म वाक् ।
ब्रह्मण एव तद्वाचे होमं हुत्वा सर्पति नार्तिमार्छति ८२